प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थ सिद्धये ।।1।।

प्रथमं वक्रतुंड च एकदंतं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।

लंबोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेद्रं धूम्रवर्णं तथाष्टकम् ।।3।।

नवमं भालचंद्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।4।।

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्न भयं तस्य सर्वसिद्धिकरं प्रभो ।।5।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।6।।

जपेत् गणपति स्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ।।8।।
श्रीनारदपुराणे संकटनाशनं श्रीगणेशस्तोत्रं संपूर्णम् ।