निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः,
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
 
सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे,
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ १ ॥
 
निहतनिखिलमोहेऽधीशता यत्र रूढा,
प्रकटितपरप्रेम्णा यो महादेवसंज्ञः ।
 
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य,
हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥ २ ॥
 
वहति विपुलवातः पूर्वसंस्काररूपः,
विदलति बलवृन्दं घूर्णितेवोर्मिमाला ।
 
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं,
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ ३ ॥
 
जनकजनितभावो वृत्तयः संस्कृताश्च,
अगणनबहुरूपो यत्र चैको यथार्थः ।
 
शमितविकृतिवाते यत्र नान्तर्बहिश्च,
तमहह हरमीडे चित्तवृत्तेर्निरोधम् ॥ ४ ॥
 
गलिततिमिरमालः शुभ्रतेजःप्रकाशः,
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
 
यमिजनहृदिगम्यो निष्कलो ध्यायमानः,
प्रणतमवतु मां सः मानसो राजहंसः ॥ ५ ॥
 
दुरितदलनदक्षं दक्षजादत्तदोषं,
कलितकलिकलङ्कं कम्रकह्लारकान्तम् ।
 
परहितकरणाय प्राणप्रच्छेदप्रीतम्,
नतनयननियुक्तं नीलकण्ठंनमामः ॥ ६ ॥